Back To Songs >>

पृष्ठतः गानानि प्रति >>

About the Project परियोजनायाः परिचयः

Select Language / व्रियतां भाषा

  • Select Language / व्रियतां भाषा
  • English
  • संस्कृतं

Whosoever said that Saṃskṛtam is only for the initiated scholars and about religious verses alone, move over!

It would be interesting to note that Saṃskṛtam was spoken in Bhārataṃ by its populace during the golden eras, under its illustrious Kings.

Such was the ease of the language that many used it prodigiously to fill the role of the mundane as well as the sublime!

In line with the erstwhile status of this highly refined language as a widely accepted one, Saṃskṛta Bhāratī has ventured to bring to the public, a reminiscence of the golden era, a taste of how Saṃskṛtam had ruled the roost with much élan with not just its wealth of literature in the realm of spiritual knowledge but on secular topics as well!

To this end, a delectable bouquet of poems has been presented in musical form on topics ranging from Nature, motherhood, love for one’s nation and the like.

Penned, composed, sung and performed by artistes of acclaim, the songs take us through a journey of awakening, of realization on how language and music blend perfectly well to sustain and nourish us not just with our thoughts, but our life as a whole!

The love for speech, prose and poetry has been innate among human beings.

A great majority of scholars of various nations have been unanimous in identifying Saskṛtam as the perfect language in the world!

The language, in addition to its virtues of having a perfect grammar, perfect phonetic structure and abundance of vocabulary, is also a key in opening the veritable treasure-trove of Bhāratam’s ancient wisdom and knowledge!

To live life in all its possibilities, positive and vibrant, ‘pāṭhayema saskṛtam’ – ‘Let us teach Saskṛtam’, far and wide!

वाणी पद्यं गद्यं वा भवतु तस्यां मनुष्याणां प्रीतिः सहजा ।

विविधराष्ट्रेषु विद्यमानाः भूयिष्ठाः भाषाविज्ञाः एकमनसा संस्कृतभाषां सर्वथा पूर्णा भाषा इति अभिज्ञातवन्तः ।

तस्याः अत्युत्तमं व्याकरणं, श्रेष्ठा ध्वनिघटना, असङ्ख्यशब्दनिधिश्च सन्ति । ततोऽपि विशेषतः भारतस्य प्राचीनं ज्ञानविज्ञानकोशम् उद्घाटयितुं सैव कुञ्चिका भवति।

जीवने सद्विचारान् ऊर्जस्वलतां च आनेतुम् – पाठयेम संस्कृतं…….

Saskṛtam fosters a sense of history stretching to such great timelines, instilling pride about the richness and depth of Bhāratam’s civilization, a nation of scintillating lineage and splendour!

Saskṛtam is the pivot on which the culture of Bhāratam thrives, a culture that ensures pluralism.

Historically, hindusthānam has been a great melting pot which welcomed all faiths – Zoroastrianism, Judaism, Christianity, Islam, etc. in line with its dhārmika foundations of pluralism.

The song ‘sarvamaṅgaladāyinīyam’ is rendered in a style where the teacher’s (guru) voice finds resonance in that of the disciple (śiṣya). It is a musical prayer to let the ‘Language Divine’ bloom, thrive, unbound and unfazed, spreading its fragrance all around!

बहुकालं यावत् व्याप्तम् इतिहासं पोषयति संस्कृतभाषा । सा भारतस्य संस्कृतेः नागरिकतायाः च समृद्धौ गम्भीरतायां च अस्माकम् अभिमानम् उत्थापयति । भारतम् उज्ज्वलवंशानां तेजस्विनां च राष्ट्रं भवति ।

संस्कृतमेव आधारः यत्र भारतीया संस्कृतिः वर्धते, या संस्कृतिः नानात्वं प्रबलयति ।

ऐतिहासिकदृष्ट्या वयं पश्यामः यद् भारतं महापात्रम् आसीत् अस्ति च यत् पारसीक-यहूद- क्रिस्तु-इस्लाम धर्मेभ्यः स्वागतं न्यवेदयत् । अत्र नानात्वस्य धार्मिकः आधारः प्रकटः ।

गुरोः स्वरः शिष्यस्य अनुरणनेन संमिलति इति “सर्वमङ्गलदायिनीयम् …” इति गीतस्य शैल्याः विशेषः । देवभाषासुमं विकसतु सुगन्धं प्रसारयत् सदा तिष्ठतु इति अत्र प्रार्थना ।

Nature’s palette provides the perfect shades to celebrate life!

All it requires is a bend of mind, to be still and tranquil and be a witness to the myriad scenes that It churns out every day!

The beauty and splendour of the sky at sunset simply bowls the poet over!

All he can do is to wonder and offer salutations to the One, the Master Painter!

The canvas of sunset, all set to take us through a reverie in the song ‘sāyaṃ kāle’!

प्रकृतिः जीवनम् उत्सवपूर्णं कर्तुम् उचितान् वर्णच्छायाविशेषान् वितरति।

सा प्रतिदिनं यानि परस्सहस्रं दृश्यानि आविष्करोति तानि साक्षात्कर्तुं मनसः तदनुकूलप्रवणता एव आवश्यकी ।

सूर्यास्तमये आकाशस्य यत् सौन्दर्यम् अस्ति, या च शोभा अस्ति तदुभयं कविम् अद्भुतचकितं करोति ।

आश्चर्येण स्तब्धः भूत्वा प्रकृतेः महाचित्रकारम् अभिवादयितुमेव सः शक्नोति ।

सूर्यास्तमयस्य चित्रपटम् अस्मान् सन्तोषोत्सवमार्गे नेतुं सज्जं ” सायंकाले ” इति गानद्वारा ।

Perhaps, mother’s love is just as unconditional as Divine love!

Compassion is so synonymous with motherly love that poets could not but sing in praise of its heavenly form!

 The acts and deeds of mother and child have been evergreen favorites transcending time and space!

It is morning and beginning of a new day.

For the child in peaceful slumber, nothing will suffice but the loving voice of her mother to wake her up to a day full of promise and love!

Through the day, each and every deed of her mother is that of adoration and tender love! Let us hear it again through her world and her words – kalye budhyati mama jananī!

प्रायः मातुः प्रेम एव दैविकप्रेम इव निरपेक्षम्।

अनुकम्पा मातुः प्रेम्णा तुल्या भवति इति कारणेन कवयः तस्य दैविकरूपस्य स्तवनम् अकृत्वा स्थातुं न शक्तवन्तः ।

शिशोः मातुः च सर्वाः चेष्टाः कालं देशं च अतिक्रम्य वर्तमानाः सर्वप्रियाः भवन्ति ।

इदं प्रभातम् । एकस्य नवदिनस्य आरम्भः ।

शान्तिपूर्णायां निद्रायां शयानां बालिकां सान्त्वनस्नेहपूर्णस्य दिनस्य प्रतीक्षया उत्थापयितुं मातुः मधुरः स्वरः एव पर्याप्तः ।

यावद्दिनं मातुः एकैका चेष्टा सान्त्वनस्य मृदुस्नेहस्य च भवति । बालिकायाः शब्देभ्यः तदधिकृत्य शृणुयाम– कल्ये बुध्यति मम जननी ॥

It is said that the prosperity of a nation is strangely yet invisibly linked to how well it respects its forefathers!

Their sacrifice acts as a bulwark to thwart all negativities, as though their indomitable spirits take up an elevated status of angel guardians, veritable sentinels to the nation!

It is as if by their sheer love for their work during their lifetime and also in their death, they are accorded a special privilege by the Divine to serve the nation still, in their after-lives as well!

“smara ciram he bhāratīya” -Let us take a moment to pray, to pay our respects and get inspired by those great souls who gave their today for our tomorrow!

कथं जनैः पूर्विकाः समाद्रियन्ते इत्येतद् आश्रित्य राष्ट्रस्य अभ्युदयः भवतीति चित्रम् ।

तैः राष्ट्राय कृतः त्यागःसकलान् अशुभविचारान् वारयितुं प्राकारः इव तिष्ठति, तेषाम् अदम्यं सत्त्वमेव जनानां दिव्यरक्षकरूपेण वर्तते ।

जीवनकाले तथा मरणावसरे अपि ते स्वकीयं कर्म प्रति यां श्रद्धाम् धृतवन्तः तस्याः अभिनन्दनेन देवाः तान् मरणानन्तरजीवने अपि राष्ट्रम् सेवितुं विशेषेण अनुजानन्ति इति प्रतीयते ।

अस्माकम् अद्यतनकालार्थं स्वकीयं श्वस्तनकालम् दत्तवद्भ्यः तेभ्यः श्रद्धाञ्जलिं कृत्वा निमेषं प्रार्थयामहे । तैः महात्मभिः राष्ट्रसेवने वयं प्रेरिताः भवेम। “स्मर चिरं हे भारतीय ” ।

How many amongst us take some time off from our hectic lifestyle to be with Nature?

It is indeed rewarding to talk to a wandering sparrow or observe a lone magpie when we take a customary morning stroll, be it in a park or garden.

Each will have a story to tell, as your mind, unbound from earthly woes mundane, soars skywards with these feathered friends, to rapture!

‘paśyatu vimale’- ‘Look O Vimalā’, says the poet, not to miss the feast for the eyes that unfolds in the sky!

कियन्तः वयं त्वरापूर्णात् जीवनात् विरामं स्वीकृत्य प्रकृत्या मेलितुं समयं पश्यामः ?

प्रातः उद्याने चलनसमये परितः भ्रमन्त्या चटकया सह आलापने तथा एकाकिनः चाषस्य दर्शने च अस्माकं महान् प्रमोदः भवेत् ।

एकैकस्य पक्षिणः अपि कथयियुं कापि कथा स्यात् । तां श्रुत्वा अस्माकं मनः सांसारिकदुःखानि त्यक्त्वा पक्षयुक्तैः तैः सह आकाशे उपरि उपरि आरोहणं करिष्यति आनन्दं प्रति ।

आकाशे अनावृतं नेत्रसुखदं दृश्यम् अदृष्टं न भवेद् इति चिन्तया कविः चोदयति – पश्यतु विमले इति ।

‘saṃskṛta’ means ‘refined’ or ‘purified,’ the antonym of which is ‘prākṛta’, meaning ‘aboriginal’ or ‘crude’.

In spite of its refinement and perfection, how many of us know that Saṃskṛtam is also an easy language to master!

There are many villages in India where the entire population speaks solely and fluently in Saṃskṛtam!

The method of learning adopted here is different from conventional means; imparted directly in Saṃskṛtam itself and not by means of another language.

The signature song ‘saralabhāṣā saṃskṛtaṃ’ elaborates the beauty of Saṃskṛtam- its different hues, shades and forms!

संस्कृतशब्दस्य अर्थः भवति परिष्कृतम् इति, पवित्रीकृतम् इति च । तस्य विपरीतार्थकः शब्दः भवति प्राकृतम् इति ।

यद्यपि अत्यन्तसंस्कारयुक्तं परिपक्वं च भवति संस्कृतं तथापि पठितुम् अतीव सरलं तद् इति कति जनाः जानन्ति?

भारते इदानीम् अनेके ग्रामाः सन्ति यत्र सर्वा अपि जनता धाराप्रवाहवत् भाषणं संस्कृतेन कुर्वन्ति।

तत्र शिक्षणस्य रीतिः परम्परागता प्राचीना नास्ति । संस्कृतस्य साक्षात् शिक्षणं भवति अन्यभाषायाः साहाय्यं विना ।

सरलभाषा संस्कृतम् इति गानं संस्कृतस्य माधुर्यं सौन्दर्यं विविधवर्णान् नानारूपाणि च वर्णयति ॥

Introduction to the Song गानस्य परिचयः

Note: Please Allow popup or disable Pop-up Blocker to download the song if there is a Popup Blocker

Please wait till the player is loaded to download the song

Please wait till the player is loaded to download the song

SONGगानम्
LYRICS/TRANSLATION देवनागर्यां गीतपाठः, IAST विधया रोमकलिप्या परिवर्तनम्, आंगलपद्यानुवादः

Word to Word Meaning आंगले प्रतिपदम् अर्थकथनम्

Back to Songs >>

पृष्ठतः गानानि प्रति >>

X